ग्रंथ पाठ
ऋग्वेद · अध्याय 10.177
10.177.01
पतंगम् अक्तम् असुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः ।
समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम् पदम् इच्छन्ति वेधसः ॥
10.177.02
पतंगो वाचम् मनसा बिभर्ति तां गन्धर्वो ऽवदद् गर्भे अन्तः ।
तां द्योतमानां स्वर्यम् मनीषाम् ऋतस्य पदे कवयो नि पान्ति ॥
10.177.03
अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् ।
स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व् अन्तः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0