ग्रंथ पाठ
ऋग्वेद · अध्याय 10.178
10.178.01
त्यम् ऊ षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् ।
अरिष्टनेमिम् पृतनाजम् आशुं स्वस्तये तार्क्ष्यम् इहा हुवेम ॥
10.178.02
इन्द्रस्येव रातिम् आजोहुवानाः स्वस्तये नावम् इवा रुहेम ।
उर्वी न पृथ्वी बहुले गभीरे मा वाम् एतौ मा परेतौ रिषाम ॥
10.178.03
सद्यश् चिद् यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान ।
सहस्रसाः शतसा अस्य रंहिर् न स्मा वरन्ते युवतिं न शर्याम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0