ऋग्वेद · अध्याय 10.174
अभीवर्तेन हविषा येनेन्द्रो अभिवावृते ।
तेनास्मान् ब्रह्मणस् पते ऽभि राष्ट्राय वर्तय ॥
अभिवृत्य सपत्नान् अभि या नो अरातयः ।
अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥
अभि त्वा देवः सविताभि सोमो अवीवृतत् ।
अभि त्वा विश्वा भूतान्य् अभीवर्तो यथाससि ॥
येनेन्द्रो हविषा कृत्व्य् अभवद् द्युम्न्य् उत्तमः ।
इदं तद् अक्रि देवा असपत्नः किलाभुवम् ॥
असपत्नः सपत्नहाभिराष्ट्रो विषासहिः ।
यथाहम् एषाम् भूतानां विराजानि जनस्य च ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0