ऋग्वेद · अध्याय 10.168
वातस्य नु महिमानं रथस्य रुजन्न् एति स्तनयन्न् अस्य घोषः ।
दिविस्पृग् यात्य् अरुणानि कृण्वन्न् उतो एति पृथिव्या रेणुम् अस्यन् ॥
सम् प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनं न योषाः ।
ताभिः सयुक् सरथं देव ईयते ऽस्य विश्वस्य भुवनस्य राजा ॥
अन्तरिक्षे पथिभिर् ईयमानो न नि विशते कतमच् चनाहः ।
अपां सखा प्रथमजा ऋतावा क्व स्विज् जातः कुत आ बभूव ॥
आत्मा देवानाम् भुवनस्य गर्भो यथावशं चरति देव एषः ।
घोषा इद् अस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0