ऋग्वेद · अध्याय 10.155
अरायि काणे विकटे गिरिं गच्छ सदान्वे ।
शिरिम्बिठस्य सत्वभिस् तेभिष् ट्वा चातयामसि ॥
चत्तो इतश् चत्तामुतः सर्वा भ्रूणान्य् आरुषी ।
अराय्यम् ब्रह्मणस् पते तीक्ष्णशृण्गोदृषन्न् इहि ॥
अदो यद् दारु प्लवते सिन्धोः पारे अपूरुषम् ।
तद् आ रभस्व दुर्हणो तेन गच्छ परस्तरम् ॥
यद् ध प्राचीर् अजगन्तोरो मण्डूरधाणिकीः ।
हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥
परीमे गाम् अनेषत पर्य् अग्निम् अहृषत ।
देवेष्व् अक्रत श्रवः क इमाँ आ दधर्षति ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0