भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.154

10.154.01

सोम एकेभ्यः पवते घृतम् एक उपासते ।
येभ्यो मधु प्रधावति ताँश् चिद् एवापि गच्छतात् ॥

10.154.02

तपसा ये अनाधृष्यास् तपसा ये स्वर् ययुः ।
तपो ये चक्रिरे महस् ताँश् चिद् एवापि गच्छतात् ॥

10.154.03

ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः ।
ये वा सहस्रदक्षिणास् ताँश् चिद् एवापि गच्छतात् ॥

10.154.04

ये चित् पूर्व ऋतसाप ऋतावान ऋतावृधः ।
पितॄन् तपस्वतो यम ताँश् चिद् एवापि गच्छतात् ॥

10.154.05

सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् ।
ऋषीन् तपस्वतो यम तपोजाँ अपि गच्छतात् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc