ऋग्वेद · अध्याय 10.151
श्रद्धयाग्निः सम् इध्यते श्रद्धया हूयते हविः ।
श्रद्धाम् भगस्य मूर्धनि वचसा वेदयामसि ॥
प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः ।
प्रियम् भोजेषु यज्वस्व् इदम् म उदितं कृधि ॥
यथा देवा असुरेषु श्रद्धाम् उग्रेषु चक्रिरे ।
एवम् भोजेषु यज्वस्व् अस्माकम् उदितं कृधि ॥
श्रद्धां देवा यजमाना वायुगोपा उपासते ।
श्रद्धां हृदय्य1याकूत्या श्रद्धया विन्दते वसु ॥
श्रद्धाम् प्रातर् हवामहे श्रद्धाम् मध्यंदिनम् परि ।
श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद् धापयेह नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0