ऋग्वेद · अध्याय 1.080
इत्था हि सोम इन् मदे ब्रह्मा चकार वर्धनम् ।
शविष्ठ वज्रिन्न् ओजसा पृथिव्या निः शशा अहिम् अर्चन्न् अनु स्वराज्यम् ॥
स त्वामदद् वृषा मदः सोमः श्येनाभृतः सुतः ।
येना वृत्रं निर् अद्भ्यो जघन्थ वज्रिन्न् ओजसार्चन्न् अनु स्वराज्यम् ॥
प्रेह्य् अभीहि धृष्णुहि न ते वज्रो नि यंसते ।
इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपो ऽर्चन्न् अनु स्वराज्यम् ॥
निर् इन्द्र भूम्या अधि वृत्रं जघन्थ निर् दिवः ।
सृजा मरुत्वतीर् अव जीवधन्या इमा अपो ऽर्चन्न् अनु स्वराज्यम् ॥
इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीळितः ।
अभिक्रम्याव जिघ्नते ऽपः सर्माय चोदयन्न् अर्चन्न् अनु स्वराज्यम् ॥
अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा ।
मन्दान इन्द्रो अन्धसः सखिभ्यो गातुम् इच्छत्य् अर्चन्न् अनु स्वराज्यम् ॥
इन्द्र तुभ्यम् इद् अद्रिवो ऽनुत्तं वज्रिन् वीर्यम् ।
यद् ध त्यम् मायिनम् मृगं तम् उ त्वम् माययावधीर् अर्चन्न् अनु स्वराज्यम् ॥
वि ते वज्रासो अस्थिरन् नवतिं नाव्या3 अनु ।
महत् त इन्द्र वीर्यम् बाह्वोस् ते बलं हितम् अर्चन्न् अनु स्वराज्यम् ॥
सहस्रं साकम् अर्चत परि ष्टोभत विंशतिः ।
शतैनम् अन्व् अनोनवुर् इन्द्राय ब्रह्मोद्यतम् अर्चन्न् अनु स्वराज्यम् ॥
इन्द्रो वृत्रस्य तविषीं निर् अहन् सहसा सहः ।
महत् तद् अस्य पौंस्यं वृत्रं जघन्वाँ असृजद् अर्चन्न् अनु स्वराज्यम् ॥
इमे चित् तव मन्यवे वेपेते भियसा मही ।
यद् इन्द्र वज्रिन्न् ओजसा वृत्रम् मरुत्वाँ अवधीर् अर्चन्न् अनु स्वराज्यम् ॥
न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् ।
अभ्य् एनं वज्र आयसः सहस्रभृष्टिर् आयतार्चन्न् अनु स्वराज्यम् ॥
यद् वृत्रं तव चाशनिं वज्रेण समयोधयः ।
अहिम् इन्द्र जिघांसतो दिवि ते बद्बधे शवो ऽर्चन्न् अनु स्वराज्यम् ॥
अभिष्टने ते अद्रिवो यत् स्था जगच् च रेजते ।
त्वष्टा चित् तव मन्यव इन्द्र वेविज्यते भियार्चन्न् अनु स्वराज्यम् ॥
नहि नु याद् अधीमसीन्द्रं को वीर्या परः ।
तस्मिन् नृम्णम् उत क्रतुं देवा ओजांसि सं दधुर् अर्चन्न् अनु स्वराज्यम् ॥
याम् अथर्वा मनुष् पिता दध्यङ् धियम् अत्नत ।
तस्मिन् ब्रह्माणि पूर्वथेन्द्र उक्था सम् अग्मतार्चन्न् अनु स्वराज्यम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0