भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.079

1.079.01

हिरण्यकेशो रजसो विसारे ऽहिर् धुनिर् वात इव ध्रजीमान् ।
शुचिभ्राजा उषसो नवेदा यशस्वतीर् अपस्युवो न सत्याः ॥

1.079.02

आ ते सुपर्णा अमिनन्तँ एवैः कृष्णो नोनाव वृषभो यदीदम् ।
शिवाभिर् न स्मयमानाभिर् आगात् पतन्ति मिहः स्तनयन्त्य् अभ्रा ॥

1.079.03

यद् ईम् ऋतस्य पयसा पियानो नयन्न् ऋतस्य पथिभी रजिष्ठैः ।
अर्यमा मित्रो वरुणः परिज्मा त्वचम् पृञ्चन्त्य् उपरस्य योनौ ॥

1.079.04

अग्ने वाजस्य गोमत ईशानः सहसो यहो ।
अस्मे धेहि जातवेदो महि श्रवः ॥

1.079.05

स इधानो वसुष् कविर् अग्निर् ईळेन्यो गिरा ।
रेवद् अस्मभ्यम् पुर्वणीक दीदिहि ॥

1.079.06

क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः ।
स तिग्मजम्भ रक्षसो दह प्रति ॥

1.079.07

अवा नो अग्न ऊतिभिर् गायत्रस्य प्रभर्मणि ।
विश्वासु धीषु वन्द्य ॥

1.079.08

आ नो अग्ने रयिम् भर सत्रासाहं वरेण्यम् ।
विश्वासु पृत्सु दुष्टरम् ॥

1.079.09

आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् ।
मार्डीकं धेहि जीवसे ॥

1.079.10

प्र पूतास् तिग्मशोचिषे वाचो गोतमाग्नये ।
भरस्व सुम्नयुर् गिरः ॥

1.079.11

यो नो अग्ने ऽभिदासत्य् अन्ति दूरे पदीष्ट सः ।
अस्माकम् इद् वृधे भव ॥

1.079.12

सहस्राक्षो विचर्षणिर् अग्नी रक्षांसि सेधति ।
होता गृणीत उक्थ्यः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc