ऋग्वेद · अध्याय 1.077
कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः ।
यो मर्त्येष्व् अमृत ऋतावा होता यजिष्ठ इत् कृणोति देवान् ॥
यो अध्वरेषु शंतम ऋतावा होता तम् ऊ नमोभिर् आ कृणुध्वम् ।
अग्निर् यद् वेर् मर्ताय देवान् स चा बोधाति मनसा यजाति ॥
स हि क्रतुः स मर्यः स साधुर् मित्रो न भूद् अद्भुतस्य रथीः ।
तम् मेधेषु प्रथमं देवयन्तीर् विश उप ब्रुवते दस्मम् आरीः ॥
स नो नृणां नृतमो रिशादा अग्निर् गिरो ऽवसा वेतु धीतिम् ।
तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म ॥
एवाग्निर् गोतमेभिर् ऋतावा विप्रेभिर् अस्तोष्ट जातवेदाः ।
स एषु द्युम्नम् पीपयत् स वाजं स पुष्टिं याति जोषम् आ चिकित्वान् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0