ऋग्वेद · अध्याय 1.076
का त उपेतिर् मनसो वराय भुवद् अग्ने शंतमा का मनीषा ।
को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम ॥
एह्य् अग्न इह होता नि षीदादब्धः सु पुरएता भवा नः ।
अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् ॥
प्र सु विश्वान् रक्षसो धक्ष्य् अग्ने भवा यज्ञानाम् अभिशस्तिपावा ।
अथा वह सोमपतिं हरिभ्याम् आतिथ्यम् अस्मै चकृमा सुदाव्ने ॥
प्रजावता वचसा वह्निर् आसा च हुवे नि च सत्सीह देवैः ।
वेषि होत्रम् उत पोत्रं यजत्र बोधि प्रयन्तर् जनितर् वसूनाम् ॥
यथा विप्रस्य मनुषो हविर्भिर् देवाँ अयजः कविभिः कविः सन् ।
एवा होतः सत्यतर त्वम् अद्याग्ने मन्द्रया जुह्वा यजस्व ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0