भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.001

1.001.01

अग्निम् ईळे पुरोहितं यज्ञस्य देवम् ऋत्विजम् ।
होतारं रत्नधातमम् ॥

1.001.02

अग्निः पूर्वेभिर् ऋषिभिर् ईड्यो नूतनैर् उत ।
स देवाँ एह वक्षति ॥

1.001.03

अग्निना रयिम् अश्नवत् पोषम् एव दिवे-दिवे ।
यशसं वीरवत्तमम् ॥

1.001.04

अग्ने यं यज्ञम् अध्वरं विश्वतः परिभूर् असि ।
स इद् देवेषु गच्छति ॥

1.001.05

अग्निर् होता कविक्रतुः सत्यश् चित्रश्रवस्तमः ।
देवो देवेभिर् आ गमत् ॥

1.001.06

यद् अङ्ग दाशुषे त्वम् अग्ने भद्रं करिष्यसि ।
तवेत् तत् सत्यम् अङ्गिरः ॥

1.001.07

उप त्वाग्ने दिवे-दिवे दोषावस्तर् धिया वयम् ।
नमो भरन्त एमसि ॥

1.001.08

राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविम् ।
वर्धमानं स्वे दमे ॥

1.001.09

स नः पितेव सूनवे ऽग्ने सूपायनो भव ।
सचस्वा नः स्वस्तये ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc