ग्रंथ पाठ
ऋग्विधान · अध्याय 4.5
4.5.23
ऊर्ध्वम्.संवत्सराच्.चैव.चरुम्.पयसि.संस्कृतम्.।
सहस्रकृत्वस्.त्व्.एतेन.दिवा.होमो.विधीयते.॥
4.5.24
जुहुयान्.निशि.पूर्वस्मिन्.भागे.रात्रि.समाहितः.।
दिवा.च.आवश्यकम्.कार्यम्.छायायाम्.अंशु.तेजसा.॥
4.5.25
इति.प्रयत.आत्मवान्त्.सूक्तम्.तु.मनसा.जपेत्.।
संवत्सरे.तृतीये.तु.सर्पिषा.साधयेत्.चरुम्.॥
4.5.26
अथ.अस्य.वरदा.देवी.रात्रिर्.भवति.शर्वरी.।
विज्ञापयति.ताम्.देवीम्.वरदाम्.स्वयम्.आगताम्.॥
4.5.27
संवत्सर.ऋतौ.मासि.दिवसे.अस्मिन्.क्षणे.अपि.वा.।
प्रयाण.कालो.भविता.तव.वत्स.इति.वत्सला.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0