भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 4.4

4.4.16

सार्वकामिम्.इत्य्.एतम्.ऋषिम्.विद्याद्.विचक्षणः.।
न.वा.उ.देवा.इत्य्.एतज्.जपेत.नियत.व्रतः.॥

4.4.17

अन्नम्.विन्दति.सर्वत्र.यत्र.यत्र.उपतिष्]हति.।
पाप्मा.उपहतम्.आत्मानम्.यो.मन्येत.विचक्षणः.॥

4.4.18

स.जपेन्.नियतो.भूत्वा.लघु.मन्येत.पाप्मना.।
वाचम्.प्रपद्येद्.वाक्.कामो.जुह्वद्.आशु.जपन्न्.इमाः.॥

4.4.19

अहम्.रुद्रेभिर्.इत्य्.एतद्.वाग्मी.भवति.पूजितः.।
नतम्.इत्य्.अष्टकम्.सूक्तम्.वैश्वदेवम्.जपन्.मुनिः.॥

4.4.20

कृत्स्नम्.तु.कल्मषम्.हत्वा.विश्वैर्.देवैः.सह.आसते.।
रात्रीम्.प्रपद्येत.सदा.शुचिश्.चीर्ण.व्रतो.निशि.॥

4.4.21

यः.कामयेत.न.पुनर्.जायेयम्.इति.योनिषु.।
सहस्रकृत्वो.मनसा.जपेद्.रात्री.इति.रात्रि.सु.॥

4.4.22

स्थाली.पाकेन.रात्रीम्.च.यजेत.अहर्.अहर्.निशि.।
तन्मना.निशि.च.आसीनस्.तिष्ठेद्.अहनि.धार्मिकः.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc