भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 4.6

4.6.28

रात्री.सूक्तम्.जपन्न्.एव.तम्.कालम्.प्रतिपद्यते.।
न.योनिम्.पुनर्.आयाति.सर्व.पापैः.प्रमुच्यते.॥

4.6.29

मम.अग्ने.वर्च.इत्य्.एतत्.सर्व.कामैर्.जपेद्.द्विजः.।
जुह्वद्.आज्यम्.अनेन.एव.सर्वान्.कामान्.अवाप्नुयात्.॥

4.6.30

याम्.कल्पयन्ति.इति.सदा.जपेत.नियत.व्रतः.।
न.एनम्.कृत्या.निहिंसन्ति.क्रुद्ध.अभिचरितानि.च.॥

4.6.31

यम्म्.अङ्गिरस.कल्पैस्.तु.तद्विदो.अभिचरन्ति.सः.।
प्रत्यङ्गिरस.कल्पेन.सर्वांस्.तान्.प्रतिबाधते.॥

4.6.32

प्रत्यङ्गिरस.विद्वांस्.तु.न.रिष्येत.कदाचन.।
न.एनम्.कृत्या.निहिंसन्ति.ज्ञात.अज्ञातानि.वा.क्वचित्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc