ग्रंथ पाठ
ऋग्विधान · अध्याय 4.3
4.3.11
स्थाली.पाकेन.नासत्याव्.अश्विनौ.तु.जयेद्.द्विजः.।
अनेन.एव.तु.सूक्तेन.हुत्वा.अश्वान्.अनुमन्त्रयेत्.॥
4.3.12
पायसम्.कृसरम्.मांसम्.ओदनम्.दधि.सक्तुकान्.।
कुल्माषांश्.च.करम्भांश्.च.फलानि.विविधानि.च.॥
4.3.13
चित्रम्.मात्र्यम्.शुभान्.गन्धान्.अन्न.पानानि.यानि.च.।
भक्ष्यम्.भोज्यम्.च.पेयम्.च.समाहृत्य.उदिते.रवौ.॥
4.3.14
भूतांशम्.अभ्यसेत्.तावद्.यावद्.अस्तमितो.रविः.।
अर्ध.रात्रे.त्व्.अतिक्रान्ते.ततो.अश्विभ्याम्.निवेदयेत्.॥
4.3.15
दीर्घ.आयुषम्.सुरूपम्.च.लभेत्.पुत्रम्.सुवर्चसम्.।
रूपवांश्.च.भवेन्.नित्यम्.भूतांशम्.यो.अभ्यसेत्.सदा.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0