भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 4.2

4.2.6

सर्वत्र.तु.परा.शान्तिर्.ज्ञेयो.अप्रतिरथस्.त्व्.ऋषिः.।
यम्.एव.देशम्.गच्छेत.शत्रुम्.वा.अप्य्.अनुमन्त्रितः.॥

4.2.7

न.अजित्वा.विनिवर्तेत.परम्.हि.ब्रह्मणो.बलम्.।
सर्व.कामैर्.जपेद्.एतत्.सर्व.काम.समृद्धये.॥

4.2.8

संग्रामम्.अभ्युद्यताय.राज्ञे.च.एतत्.प्रयोजयेत्.।
सर्वान्.विजयते.शत्रून्.न.पराजीयते.परैः.॥

4.2.9

पथि.स्वस्त्ययनम्.च.एतत्.तस्करेभ्यश्.चरन्.पथि.।
भूत.उरग.पिशाचेभ्यः.सर्वेभ्यः.परिरक्षति.॥

4.2.10

भूतांशम्.काश्यपम्.सूक्तम्.प्रजा.कामः.शुचिर्.जपन्.।
अनुरूपाम्.प्रजाम्.आशु.लभते.न.अत्र.संशयः.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc