ग्रंथ पाठ
ऋग्विधान · अध्याय 4.24
4.24.121
यथा.अश्व.मेध.अवभृथस्.तादृशम्.मनुर्.अब्रवीत्.।
यथा.अश्व.मेधः.क्रतु.राट्.सर्व.पाप.प्रणोदनः.॥
4.24.122
तथा.अघमर्षणम्.सूक्तम्.सर्व.पाप.प्रणोदनम्.।
सेना.दारणम्.एतत्.स्यान्.नैर्हस्त्यम्.इति.शौनकः.॥
4.24.123
मनसाध्येयम्.एतत्.तु.मन्यते.शौनकस्.त्व्.ऋषिः.।
सम्.समिद्.युवसे.वृषन्.सौभ्रातृ.करणम्.महत्.॥
4.24.124
ज्ञाति.भेदे.प्रयुञ्जीत.न.भिद्यन्ते.कदाचन.।
कृते.भेदे.तु.संज्ञानम्.एतत्.संधि.करम्.जपेत्.॥
4.24.125
न.तत्र.भेदो.भूयः.स्याद्.यत्र.एतत्.सततम्.जपेत्.।
तच्.शम्योर्.आ.वृणीमह.इति.स्वस्त्ययने.जपेत्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0