ऋग्विधान · अध्याय 4.25
महानाम्न्यः.परम्.ब्रह्म.शुक्रम्.ज्योतिः.सनातनम्.।
सपत्नघ्न्यश्.च.पुण्याश्.च.पावमान्यः.पराः.स्मृताः.॥
वृष्टि.कामो.जपेच्.च.एता.आपो.हि.ष्ठाः.सनातनाः.।
ओम्.कार.पूर्वा.व्याहृतयो.मधुच्छन्दस.आदितः.॥
सूक्तान्य्.अन्ते.महानाम्न्यः.संहिता.सा.अमृता.स्मृता.।
अमृतत्वम्.ययुर्.देवाः.पूर्वम्.सहितया.अनया.॥
जपेद्.एताम्.शुचिर्.नित्यम्.अमृतत्वम्.स.गच्छति.।
अत्र.एव.त्व्.आवपेन्.मध्ये.पितृ.सूक्तान्य्.अनेकशः.॥
पित्र्याम्.ताम्.संहिताम्.विद्यात्.पितॄन्.प्रीणाति.च.एतया.।
एवम्.एव.समाहृत्य.वासवी.संहिता.भवेत्.॥
रौद्र.आदित्या.वैश्वदेवी.यद्.देवत्याम्.च.कामयेत्.।
कुर्वीत.वास्तु.शमनम्.मध्ये.गोष्ठस्य.धर्मवित्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0