भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 4.23

4.23.116

शाम्बरीम्.इन्द्र.जालाम्.वा.मायाम्.एतेन.वारयेत्.।
अदृष्टानाम्.च.सत्त्वानाम्.मायाम्.एतेन.बाधते.॥

4.23.117

त्यमूष्व्.इति.स्वस्त्ययनम्.जपेत.नियत.व्रतः.।
पुष्पम्.दृष्ट्वा.तु.या.गर्भम्.न.गृह्णीयाद्.वयो.अन्विता.॥

4.23.118

विष्णुर्.योनिम्.नेजमेष.योनिम्.स्पृष्ट्वा.ततो.जपेत्.।
महि.त्रीणाम्.अवो.अस्त्व्.इति.पथि.स्वस्त्ययने.जपेत्.॥

4.23.119

प्र.अग्नये.अथ.द्विषद्.द्वेष्यम्.जपेद्.द्वेषस्य.निष्कृतिम्.।
आयम्.गौः.सार्पराज्ञीस्.तु.सर्वान्.एतेन.बाधते.॥

4.23.120

पवित्राणाम्.पवित्रम्.तु.जपेद्.एव.अघमर्षणम्.।
अपः.प्रविश्य.यश्.च.एतत्.त्रिः.पठेत्.सुसमाहितः.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc