ग्रंथ पाठ
ऋग्विधान · अध्याय 4.22
4.22.111
वैयाघ्रम्.तु.भवेत्.चर्म.समिद्.औदुम्बरी.भवेत्.।
तिर्.एनम्.अभिषिच्य.एवम्.दुन्दुभीन्.अभिमन्त्रयेत्.॥
4.22.112
प्राच्याम्.त्वा.दिशि.वसवो.अभिषिञ्चन्तु.तेजसे.।
दक्षिणस्याम्.त्वा.दिशि.रुद्रा.अभिषिञ्चन्तु.वृद्धये.॥
4.22.113
प्रतीच्याम्.त्वा.दिश्य्.आदित्या.अभिषिञ्चन्तु.पुष्टये.।
विश्वेदेवा.उदीच्याम्.तु.अभिषिञ्चन्तु.श्रेयसे.॥
4.22.114
अभिषिच्य.च.राजानम्.आशीर्भिर्.अभिनन्द्य.च.।
आ.त्वा.अहार्षम्.अन्तरेधी.इत्य्.अथ.एनम्.अभिमन्त्रयेत्.॥
4.22.115
पतङ्गम्.इति.नित्यम्.तु.जपेद्.अज्ञान.भेदनम्.।
माया.भेदनम्.एतद्द्.हि.सर्व.मायाः.प्रबाधते.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0