भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 4.21

4.21.106

राजानम्.अभिषिञ्चेत.तिष्येण.श्रवणेन.वा.।
पौष्ण.सावित्र.सौम्य.अश्वि.रोहिणीषु.उत्तरासु.च.॥

4.21.107

हुत्वा.अग्निम्.राज.लिङ्गाभिः.सावित्र्या.प्रयतः.शुचिः.।
महा.व्याहृतिभिश्.चैव.सम्पात.अभिहुतो.भवेत्.॥

4.21.108

सर्व.ओषधि.रसैः.श्लक्ष्णैर्.नदीनाम्.सलिलेन.च.।
व्याघ्र.चर्मण्य्.अथ.आसीनम्.आसन्द्याम्.अभिषिच्य.च.॥

4.21.109

तिष्ठन्.प्रत्यन्.मुखो.ब्रूयाज्.जय.त्वम्.पृथिवीम्.इमाम्.।
धर्मस्.ते.निखिलो.राजन्.वर्धताम्.पालयन्.प्रजाः.॥

4.21.110

वर्धस्व.त्वम्.श्रियै.पुष्ट्यै.जयाय.अभ्युदयाय.च.।
राजानः.सन्तु.ते.गोत्रे.ततो.अप्रतिरथम्.जपेत्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc