ग्रंथ पाठ
ऋग्विधान · अध्याय 4.20
4.20.101
होमेन.च.जपैश्.चैव.यक्षम्.नाशनम्.आचरेत्.।
अपेहि.इति.च.जपेत्.सूक्तम्.शुचिर्.दुह्स्वप्न.नाशनम्.॥
4.20.102
देवाः.कपोत.इति.तु.कपोतस्य.उपवेशने.।
सूक्तेन.जुहुयाद्.आज्यम्.यम.दूतम्.हि.तम्.विदुः.॥
4.20.103
सपत्नघ्नम्.प्रयुञ्जीत.ऋषभम्.जप.होमयोः.।
येन.इदम्.इति.वै.नित्यम्.जपेत.नियत.व्रतः.॥
4.20.104
समाधिम्.मनसस्.तेन.विन्दते.न.एव.मुह्यति.।
मयो.भूर्.वात.इति.तु.गवाम्.स्वस्त्ययने.जपेत्.॥
4.20.105
यवानाम्.तु.घृत.अक्तानाम्.कारीषे.अग्नौ.समाहितः.।
जुहुयाद्.गोष्ठ.मध्ये.तु.दधि.मध्व्.आज्य.संस्कृतान्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0