ग्रंथ पाठ
ऋग्विधान · अध्याय 4.19
4.19.96
पुरः.स्तन.प्रदानात्.तम्.श्रद्धा.सूक्तेन.पाययेत्.।
मेधा.सूक्तेन.चैव.एनम्.पिष्टम्.व्रीहिमयम्.चरुम्.॥
4.19.97
मधु.मिश्रम्.जात.रूपम्.मेधावी.तेन.जायते.।
शतम्.वर्षाणि.जीवेत्.ंरियते.न.पुरा.आयुषः.॥
4.19.98
स्मृतम्.एव.तस्य.स्यात्.षण्.मासाच्.च.ततः.परम्.।
आज्यम्.संस्कृत्य.जुहुयाद्.अक्षिभ्याम्.त.इति.द्विजः.॥
4.19.99
पाणिना.तु.घृत.अक्तेन.मूर्धानम्.संस्पृशेत्.ततः.।
कर्णौ.नेत्रे.च.छुबुकम्.नासिके.चैव.संस्पृशेत्.॥
4.19.100
एवम्.एव.जपेन्.नित्यम्.यक्ष्मणो.विप्रमुच्यते.।
पूर्व.उक्तेन.एव.कल्पेन.यक्ष्म.नाशनम्.आचरेत्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0