ग्रंथ पाठ
ऋग्विधान · अध्याय 4.1
4.1.1
इष्ट्वा.शरदि.वै.रुद्रम्.ओषधीश्.च.यजेत्.तथा.।
तस्य.आमया.न.भवन्ति.तथा.जीर्णानि.यानि.च.॥
4.1.2
क्रियाम्.तु.सप्त.रात्रेण.सप्तकृत्वो.अभ्यसेत्.ततः.।
प्रपद्येत.ओषधीम्.विप्रः.सूक्तम्.एतज्.जपन्त्.सदा.॥
4.1.3
द्विषत्.क्षेत्राद्.इह.आयध्वम्.इति.विज्ञापयेत.च.।
स्व.क्षेत्रे.वरुणम्.इष्ट्वा.विन्दते.द्विषद्.ओषधीः.॥
4.1.4
वृष्टि.कामो.यत.आहारः.प्रपद्येत.बृहस्पतिम्.।
पायसेन.उपहारेण.होमेन.च.समन्वितः.॥
4.1.5
बृहस्पते.पति.इत्य्.एतद्.वृष्टि.कामः.प्रयोजयेत्.।
पर्जन्यम्.च.नमस्.कृत्वा.वृष्टिम्.विन्दति.शोभनाम्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0