ऋग्विधान · अध्याय 3.43
बिल्व.पत्रम्.शमी.पत्रम्.पत्रम्.भृङ्गारकस्य.च.।
मालती.कुश.पद्मम्.च.सद्यस्.तुष्टि.करम्.हरेः.॥
यन्.न.उपपद्यते.किंचित्.तम्.ध्यायेन्.मनसा.एव.तु.।
सम्पद्यते.प्रसादात्.तु.देव.देवस्य.चक्रिणः.॥
पत्रैश्.च.पुष्पैश्.च.तोयैर्.अक्रीत.लब्धैर्श्.च.सदा.एव.सत्सु.।
भक्त्या.एक.लभ्ये.पुरुषे.पुराणे.मुक्त्यै.किम्.अर्थम्.क्रियते.न.यत्नः.॥
इत्य्.एवम्.उक्तः.पुरुषस्य.विष्णोर्.अर्चा.विधिर्.विष्णु.कुमार.नाम्ना.।
मुक्त्या.एक.मार्ग.प्रतिबोधनाय.दृष्ट्वा.विधानम्.त्व्.इह.नारद.उक्तम्.॥
या.ओषधीः.स्वस्त्ययनम्.जपेत.नित्य.व्रतः.।
ओषधीश्.च.जयेन्.नित्यम्.षण्.मासान्.एव.नित्यशः.॥ए
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0