भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 3.8

3.8.40

न.एनम्.पुरा.आयुषो.मृत्युर्.नयते.ससुत.प्रजम्.।
फल.आहारो.जयेन्.मृत्युम्.त्रिभिर्.वर्षैर्.मित.अशनः.॥

3.8.41

षष्ठे.काले.तु.भुञ्जीत.फलम्.मूलम्.अथ.अपि.वा.।
स्थान.आसनाभ्याम्.विहरेद्.उदके.शिशिरे.वसेत्.॥

3.8.42

ग्रीष्मे.पञ्च.तपास्.तु.स्याद्.वर्षास्व्.अभ्र.अवकाशकः.।
एवम्.युक्तो.जयेन्.मृत्युम्.रोगेभ्यश्.च.प्रमुच्यते.॥

3.8.43

भ्रातुर्.भार्याम्.अपुत्रस्य.सन्तान.अर्थम्.मृते.पतौ.।
देवरो.अन्वारुरुक्षन्तीम्.उदीर्ष्व.इति.निवर्तयेत्.॥

3.8.44

ऋतु.काले.तु.सम्प्राप्ते.घृत.अभ्यक्तो.अथ.वाग्.यतः.।
एकम्.उत्पादयेत्.पुत्रम्.न.द्वितीयम्.कथंचन.॥

3.8.45

दश.अक्षरम्.तु.शान्त्य्.अर्थम्.भद्रम्.न.इति.संस्मरेत्.।
नित्यम्.जपेत्.शुचिर्.भूत्वा.मानसम्.विन्दते.सुखम्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc