ग्रंथ पाठ
ऋग्विधान · अध्याय 3.9
3.9.46
फल.आहारो.भवेन्.मासम्.मासम्.च.अपः.पिबेत्.ततः.।
वायु.भक्षो.भवेन्.मासम्.जपन्न्.एतत्.सहस्रशः.॥
3.9.47
मनसा.एव.अस्य.सिध्यन्ति.सर्वे.कामाः.समीहिताः.।
दिव्यान्.पश्यति.गन्धर्वान्त्.सिद्धान्.पश्यति.चारणान्.॥
3.9.48
अन्तर्धानम्.व्रजत्य्.अस्माल्.लोकाद्.आकाशगो.भवेत्.।
दूरात्.पश्यति.दूराच्.च.शृणोति.परमेष्ठिवत्.॥
3.9.49
प्र.देवत्र.इति.नियतो.जपेत.मरु.धन्वसु.।
प्राण.अन्तिके.भये.प्राप्ते.क्षिप्रम्.अम्भः.स.विन्दति.॥
3.9.50
वैभीतकांस्.तु.त्रीन्.अक्षान्.गन्धैः.समभिवासयेत्.।
पुष्पैर्.अवकिरेच्.च.एनान्त्.स्थापयित्वा.विहायसि.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0