भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 3.7

3.7.34

उपतिष्ठेत.राजानम्.यमम्.सूक्तेन.वै.द्विजः.।
स्थाली.पाकम्.च.कुर्वीत.पक्षयोर्.यम.दैवतम्.॥

3.7.35

अष्टम्याम्.च.चतुर्दश्याम्.यजेत.हविषा.यमम्.।
परेयिवांसम्.इत्य्.एतत्.सूक्तम्.अत्र.प्रयोजयेत्.॥

3.7.36

पुरा.आयुषः.प्रमीयेत.न.जातु.स.कथंचन.।
प्रीयते.अस्य.यमो.राजा.स्मृतिम्.च.अन्ते.प्रयच्छति.॥

3.7.37

धर्म.राजाय.स्वाहा.इति.मन्त्र.अन्ते.जुहुयाद्द्.हविः.।
वैशाख्याम्.पौर्णमास्याम्.तु.कर्म.नित्यम्.प्रयोजयेत्.॥

3.7.38

अनये.पर्वसु.स्नात्वा.यः.प्रदद्यात्.तिल.उदकम्.।
यमाय.सगणाय.एव.तद्.भयम्.न.स.विन्दति.॥

3.7.39

मृत्युम्.एव.प्रपद्येत.परम्.मृत्यो.जपन्.द्विजः.।
नक्त.भोजी.मित.आहारः.परिसंवत्सरम्.सदा.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc