ऋग्विधान · अध्याय 3.6
ब्रह्महा.स.पुरा.शक्रस्.त्वाष्ट्रम्.हत्वा.त्व्.ऋषिम्.प्रभम्.।
सिन्धु.द्वीपस्.तम्.एताभिर्.अभिषिच्य.व्यमोचयत्.॥
ब्रह्मस्वम्.च.गुरोर्.द्रव्यम्.स्तेयम्.कृत्वा.जपन्न्.इमाः.।
अनेन.एव.विधानेन.षड्भिर्.वर्षैः.प्रमुच्यते.॥
ब्रह्महा.च.सुरापश्.च.नियमेन.जपन्न्.इमाः.।
अनेन.एव.उपचारेण.ब्रह्मघ्न.इव.मुच्यते.॥
ब्राह्मणस्य.रुषा.उद्यम्य.जपेद्.एता.निपात्य.च.।
त्र्यहम्.निपात्य.उपवसेद्.एक.अहम्.अवगूर्य.च.॥
शोणितम्.तु.प्रहारेण.उत्पाद्य.स.कथंचन.।
त्रि.रात्रम्.एव.उपवसेज्.जपेद्.एताः.प्रसाद्य.तम्.॥
प्रातर्.उत्थाय.सततम्.कुर्याद्.मार्जनम्.आत्मनः.।
रात्रौ.कृतस्य.पापस्य.अविज्ञातस्य.निष्कृतिः.॥
सायम्.च.नित्यम्.एताभिः.कुर्याद्.मार्जनम्.आत्मनः.।
दिवा.कृतस्य.पापस्य.अविज्ञातस्य.निष्कृतिः.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0