ग्रंथ पाठ
ऋग्विधान · अध्याय 3.42
3.42.224
ध्येयः.सदा.सवितृ.मण्डल.मध्य.वर्ती.नारायणः.सरसिज.आसन.सम्निविष्टः.।
केयूरवान्.मकर.कुण्डलवान्.किरीटी.हारी.हिरण्मय.वपुर्.धृत.शङ्ख.चक्रः.॥
3.42.225
एतत्.तु.यः.पठति.केवलम्.एव.सूक्तम्.नारायणस्य.चरणाव्.अभिवन्द्य.वन्द्यौ.।
पाठेन.तेन.परमेन.सनातनस्य.स्थानम्.जरा.मरण.वर्जितम्.एति.विष्णोः.॥
3.42.226
हविषा.अग्नौ.जले.पुष्पैर्.ध्यानेन.हृदय्.हरिम्.।
यजन्ति.सूरयो.नित्यम्.जपेन.रवि.मण्डले.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0