भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 3.39

3.39.207

पर्वत.अग्रे.समुद्रे.वा.यत्र.वा.अपि.मनो.रमे.।
न.त्व्.एव.विषयान्.प्राप्य.धारयीत.कथंचन.॥

3.39.208

बह्व्.अत्र.दुह्खम्.जानीयात्.प्रध्वंसे.धारणा.कृते.।
धार्मिकाणाम्.कुले.शुद्धे.योग.भ्रष्टो.अभिजायते.॥

3.39.209

मूर्ध्नि.ब्रह्म.यदा.विन्देत्.तम्.एव.ऋषि.सत्तमम्.।
तदा.मूर्ध्नः.परम्.ज्योतिर्.नक्षत्र.पथम्.उन्नयेत्.॥

3.39.210

योगी.योग.ईश्वरम्.प्राप्य.निर्द्वन्द्वः.परम.आत्मवित्.।
सर्वत्र.एव.आत्मना.आत्मानम्.पश्येद्.ऋषि.परायणः.॥

3.39.211

जपेच्.चैव.सदा.स्नातः.पवित्रम्.इदम्.उत्तमम्.।
अपि.पातक.सम्युक्तः.कालेन.सुकृती.भवेत्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc