ऋग्विधान · अध्याय 3.40
तपः.परायणो.नित्यम्.सत्य.वाग्.अनसूयकः.।
जपन्न्.एतम्.ऋषिम्.विप्रः.कालेन.स.वनी.भवेत्.॥
येन.येन.च.कामेन.जपेद्.इमम्.ऋषिम्.सदा.।
स.स.कामः.समृद्धः.स्यात्.श्रद्दधानस्य.कुर्वतः.॥
होमम्.वा.अप्य्.अथवा.जाप्यम्.उपहारम्.अथो.चरुम्.।
कुर्वीत.येन.कामेन.तत्.सिद्धिम्.अवधारयेत्.॥
ज्ञाति.श्रैष्ठ्यम्.महद्.वित्तम्.यशो.लोके.पराम्.गतिम्.।
पापेन.विप्रमोक्षस्.तु.तत्.सिद्धिम्.अवधारयेत्.॥
ज्ञान.गम्यम्.परम्.सूक्ष्मम्.व्याप्य.सर्वम्.अवस्थितम्.।
ग्राह्यम्.अत्यन्त.यत्नेन.ब्रह्म.अभ्येत्य्.सनातनम्.॥
सहस्र.शीर्षा.इति.सूक्तम्.सर्व.काम.फल.प्रदम्.।
वेद.गर्भ.शरीरेण.स.वै.नारायणः.स्मृतः.॥
ब्रह्म.इन्दु.रुद्र.पर्जन्या.अत्र.सूक्ते.व्यवस्थिताः.।
अत्रस्थम्.एतद्.द्रष्टव्यम्.जगत्.स्थावर.जङ्गमम्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0