भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 3.34

3.34.180

कार्याणाम्.कारणम्.पूर्वम्.वचसाम्.वायम्.उत्तमम्.।
योगिनाम्.परम.ऐद्धिः.परमम्.ते.पदम्.विदुः.॥

3.34.181

अहम्.भीतो.अस्मि.देव.ईश.संसारे.अस्मिन्.महा.भये.।
त्राहि.माम्.पुण्डरीक.अक्ष.न.जाने.परमम्.पदम्.॥

3.34.182

कालेष्व्.अपि.च.सर्वेषु.दिष्कु.सर्वाषु.च.अच्युत.।
शरीरे.च.गतश्.च.असि.वर्तते.मे.महद्.भयम्.॥

3.34.183

त्वत्.पाद.कमलाद्.अन्यन्.न.मे.जन्म.अन्तरेष्व्.अपि.।
विज्ञानम्.यद्.इदम्.प्राप्य.यद्.इदम्.स्थानम्.अर्जितम्.॥

3.34.184

जन्म.अन्तरे.अपि.मे.देव.मा.भूद्.अस्य.परिक्षयः.।
दुर्गताव्.अपि.जातव्य.त्वद्.गतो.मे.मनो.रथः.॥

3.34.185

यदि.नाशम्.न.विन्देत.तावता.अस्मि.कृती.सदा.।
कामये.विष्णु.पादौ.तु.सर्व.जन्मसु.केवलम्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc