ऋग्विधान · अध्याय 3.33
जितम्.ते.पुण्डरीक.अक्ष.नमस्.ते.विश्व.भावन.।
नमस्.ते.अस्तु.हृषीकेश.महा.पुरुष.पूर्वज.॥
देवानाम्.दानवानाम्.च.सामान्यम्.अधिदैवतम्.।
सर्वदा.चरण.द्वन्द्वम्.व्रजामि.शरणम्.तव.॥
एकस्.त्वम्.असि.लोकस्य.स्रष्टा.संहारकस्.तथा.।
अव्यक्तश्.च.अनुमन्ता.च.गुण.माया.समावृतः.॥
संसार.सागरम्.घोरम्.अनन्तम्.क्लेश.भाजनम्.।
त्वाम्.एव.शरणम्.प्राप्य.निस्तरन्ति.मनीषिणः.॥
न.ते.रूपम्.न.च.आकारो.न.आयुधानि.न.च.आस्पदम्.।
तथा.अपि.पुरुष.आकारो.भक्तानाम्.त्वम्.प्रकाशसे.॥
न.एव.किंचित्.परोक्षम्.ते.प्रत्यक्षो.असि.न.कस्यचित्.।
न.एव.किंचिद्.असाध्यम्.ते.न.च.साध्यो.असि.कस्यचित्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0