ऋग्विधान · अध्याय 3.32
ततः.प्रदक्षिणाम्.कृत्वा.जपम्.कुर्यात्.समाहितः.।
यथा.शक्ति.जपित्वा.तु.सूक्तम्.तस्य.निवेदयेत्.॥
देवस्य.दक्षिणे.पार्श्वे.कुण्डम्.स्थण्डिलम्.एव.वा.।
कारयेत्.प्रथमेन.एव.द्वितीयेन.तु.प्रोक्षणम्.॥
तृतीयेन.अग्निम्.आदध्याच्.चतुर्थेन.समिन्धनम्.।
पञ्चमेन.आज्य.श्रपणम्.चरोश्.च.श्रपणम्.तथा.॥
षष्ठेन.एव.अग्नि.मध्ये.तु.कल्पयेत्.पद्मम्.आसनम्.।
चिन्तयेद्.देव.देव.ईशम्.काल.अनल.सम.प्रभम्.॥
ततो.गन्धम्.च.पुष्पम्.च.धूप.दीप.निवेदनम्.।
अनुज्ञाप्य.ततः.कुर्यात्.सप्तम्य्.आदि.यथा.क्रमम्.॥
समिधस्.तावतीः.पूर्वम्.जुहुयाद्.अभिधारिताः.।(?)
ततो.घृतेन.जुहुयाच्.चरुणा.च.ततः.पुनः.।
एवम्.हुत्वा.ततश्.चैव.अनुज्ञाप्य.यथा.क्रमम्.॥
अग्नेर्.भगवतस्.तस्य.समीपे.स्तोत्रम्.उच्चरेत्.।
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0