ऋग्विधान · अध्याय 3.31
एवम्.न्यास.विधिम्.कृत्वा.पश्चात्.पूजाम्.समारभेत्.।
यथा.देहे.तथा.देवे.न्यासम्.कृत्वा.विधानतः.॥
आद्यया.आवाहयेद्.देवम्.ऋचा.तु.पुरुष.उत्तमम्.।
द्वितीयया.आसनम्.दद्यात्.पाद्यम्.चैव.तृतीयया.॥
अर्घ्यम्.चतुर्थ्या.दातव्यम्.पञ्चम्या.आचमनीयकम्.।
षष्ठ्या.स्नानम्.प्रकुर्वीत.सप्तम्या.वस्त्रम्.एव.च.॥
यज्ञ.उपवीतम्.अष्टम्या.नवम्या.च.अनुलेपनम्.।
पुष्पम्.दशम्या.दातव्यम्.एकादश्या.तु.धूपकम्.॥
द्वादश्या.दीपकम्.दद्यात्.त्रयोदश्या.निवेदनम्.।
चतुर्दश्या.नमस्कारम्.पञ्चदश्या.प्रदक्षिणम्.॥
स्नाने.वस्त्रे.च.नैवेद्ये.दद्याद्.आचमनीयकम्.।
दक्षिणाम्.तु.यथा.शक्त्या.षोडश्या.तु.प्रदापयेत्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0