ऋग्विधान · अध्याय 3.30
नारायण.महा.बाहो.शृणुष्व.एक.मनाः.प्रभो.।
वक्ष्ये.पुरुष.सूक्तस्य.विधानम्.त्व्.अर्चनम्.प्रति.॥
अग्नि.कार्यम्.जप.विधिम्.स्तोत्रम्.चैव.सदात्मकम्.।
स्नात्वा.यथा.उक्त.विधिना.प्रान्.मुखः.शुद्ध.मानसः.॥
प्रथमाम्.विन्यसेद्.वामे.द्वितीयाम्.दक्षिणे.करे.।
तृतीयाम्.वाम.पादे.तु.चतुर्थीम्.दक्षिणे.न्यसेत्.॥
पञ्चमी.वाम.जानुनि.षष्ठिम्.वै.दक्षिणे.न्यसेत्.।
सप्तमीम्.वाम.कट्याम्.तु.अष्टमीम्.दक्षिणे.कटौ.॥
नवमीम्.नाभि.मध्ये.तु.दशमीम्.हृदये.न्यसेत्.।
एकादशीम्.कण्ठ.देशे.द्वादशीम्.वाम.बाहुके.॥
त्रयोदशीम्.दक्षिणे.च.आस्ये.चैव.चतुर्दशीम्.।
अक्ष्णोः.पञ्चदशीम्.चैव.षोडशीम्.मूर्ध्नि.विन्यसेत्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0