ऋग्विधान · अध्याय 3.29
क्षिप्रम्.सा.जनयेत्.पुत्रम्.ऋष्यशृङ्गो.यथा.अब्रवीत्.॥
अर्चाम्.सम्प्रवक्ष्यामि.विष्णोर्.अमित.तेजसः.।
यत्.कृत्वा.मुनयः.सर्वे.ब्रह्म.निर्वाणम्.आप्नुयुः.॥
अप्स्व्.अग्नौ.हृदये.सूर्ये.स्थण्डिले.प्रतिमासु.च.।
षट्स्व्.एतेषु.हरेः.सम्यग्.अर्चनम्.मुनिभिः.स्मृतम्.॥
अग्नौ.क्रियावताम्.देवो.दिवि.देवो.मनीषिणाम्.।
प्रतिमास्व्.अल्प.बुद्धीनाम्.योगिनाम्.हृदये.हरिः.॥
आपो.ह्य्.आयतनम्.तस्य.तस्मात्.तासु.सदा.हरिः.।
तस्य.सर्व.गतत्वाच्.च.स्थण्डिले.भावित.आत्मनाम्.॥
दद्यात्.पुरुष.सूक्तेन.यः.पुष्पाण्य्.अप.एव.वा.।
अर्चितम्.स्यात्.जगद्.इदम्.तेन.सर्वम्.चर.अचरम्.॥
आनुष्टुभस्य.सूक्तस्य.त्रिष्टुब्.अन्तस्य.देवता.।
पुरुषो.यो.जगद्.बीजम्.ऋषिर्.नारायणः.स्मृतः.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0