ऋग्विधान · अध्याय 3.3
सर्व.कल्मष.नाशाय.पावनाय.शिवाय.च.।
स्वादिष्ठया.इति.सूक्तानाम्.सप्त.षष्टिर्.इह.उदिता.॥
दश.उत्तराण्य्.ऋचाम्.चैव.पावमानीः.शतानि.ष].।
एतज्.जुह्वन्.जपंश्.चैव.घोरम्.मृत्यु.भयम्.जयेत्.॥
व्याधिभ्यः.परिमोक्षम्.च.लभते.न.अत्र.संशयः.।
प्रतिगृह्य.अप्रतिग्राह्यम्.भुक्त्वा.च.अन्नम्.विगर्हितम्.॥
जपंस्.तरत्समन्दीयम्.प्रविश्य.अपः.त्र्यहात्.शुचिः.।
पावमानम्.परम्.ह्य्.एतद्.रपसाम्.अपनोदनम्.॥
प्राणान्.आयम्य.च.ध्यायेद्.अन्ते.देवान्.पितॄन्.ऋषीन्.।
उपोष्य.आज्यम्.च.जुहुयाद्.अग्निम्.सोमम्.च.पूजयेत्.॥
सरस्वतीम्.च.अर्चयेत.पयो.अम्बु.मधु.सर्पिषा.।
आध्यात्मिकम्.पवित्रम्.ते.सूक्तम्.जप्त्वा.आप्लुतः.शुचिः.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0