ऋग्विधान · अध्याय 3.4
गतिम्.इष्टाम्.अवाप्नोति.विन्दते.च.इह.वृद्दयः.।
[.मण्डलम्.पावमानम्.तु.जपेल्.लक्षम्.उपोषितः.।
नाशयेद्.ब्रह्महत्याम्.वै.वसिष्ठ.वचनम्.यथा.।](नोत् इन् भत्)
नानानम्.इति.सूक्तानि.अन्त.काले.जपेत्.सकृत्.॥
जप्त्वा.चैव.परम्.स्थानम्.अमृतत्वम्.च.गच्छति.।
आपो.हि.ष्ठ.इति.नियतः.प्रयुञ्जीत.सदा.द्विजः.॥
स्नान.अर्थम्.शुद्धि.कामस्.तु.जपेत.त्रिः.समाहितः.।
अप्सु.चैव.निमज्जित्वा.त्रिः.पठेत्.सुसमाहितः.॥
ब्रह्महा.तु.कपालेन.खट्व.अङ्गी.चीर.संवृतः.।
चरेद्.द्वादश.वर्षाणि.स्व.कर्म.परिकीर्तयन्.॥
अजपन्.मनसा.एव.एतद्.आपो.हि.ष्ठ.इति.संस्मरेत्.।
ऊर्ध्वम्.तु.पञ्चमाद्.वर्षाज्.जपेद्.एव.सहस्रशः.॥
अपरस्.तु.त्रि.साहस्रो.जपः.स्यात्.प्रत्यहम्.सदा.।
पूर्णे.तु.द्वादशे.वर्षे.ब्रह्महा.विप्रमुच्यते.॥
समेत्य.ब्राह्मणा.ब्रूयुर्.अथ.तम्.चरित.व्रतम्.।
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0