ऋग्विधान · अध्याय 3.2
प्रीणाति.देवताम्.तच्.च.समर्धयति.कर्म.च.।
पित्र्ये.पित्रीन्.प्रीणयन्ति.श्राविताः.प्रयत.आत्मना.॥
कृत्वा.दोषान्त्.सुमहतो.अप्य्.अपेय.आदीन्.प्रपीय.च.।
जप्त्वा.तरत्.समन्दीयम्.प्रविश्य.अपः.त्र्यहात्.शुचिः.॥
अक्षय्यम्.च.भवेद्.दत्तम्.पितृभ्यः.परमम्.मधु.।
यः.पावमानीर्.अध्येति.पूत.आत्मा.विजित.इन्द्रियः.॥
तस्य.काम.दुघा.भूत्वा.उपतिष्ठन्ति.धेनवः.।
आयुर्.बलम्.यशो.वित्तम्.प्रजाम्.कीर्तिम्.अनामयम्.॥
स्वाध्याय.पुण्यम्.अतुलम्.पूतः.प्राप्नोति.च.अक्षयम्.।
अशक्तस्.तु.जपेद्.युक्ताः.पवित्रस्य.च.याः.पराः.॥
सप्त.ऋषिभिश्.च.याः.प्रोक्ताः.पवित्रस्य.च.याः.पराः.।
ऋचाम्.द्विषष्टिः.प्रोक्ता.इयम्.पवस्व.इत्य्.ऋषि.सत्तमैः.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0