ग्रंथ पाठ
ऋग्विधान · अध्याय 3.26
3.26.134
शुक्ल.पक्षे.शुभे.वारे.सुनक्षत्रे.सुगोचरे.।
द्वादश्याम्.पुत्र.कामाय.चरुम्.कुर्वीत.वैष्णवम्.॥
3.26.135
दम्पत्योर्.उपवासः.स्याद्.एकादश्याम्.सुल.आलये.।
ऋग्भिः.षोडशभिः.सम्यग्.अर्चयित्वा.जनार्दनम्.॥
3.26.136
चरुम्.पुरुष.सूक्तेन.श्रपयेत्.पुत्र.काम्यया.।
प्राप्नुयाद्.वैष्णवम्.पुत्रम्.अचिरात्.सन्तति.क्षमम्.॥
3.26.137
द्वादश.द्वादशीः.सम्यक्.पयसा.निर्वपेत्.चरुम्.।
यः.करोति.सहस्रम्.स्याद्.याति.विष्णोः.परम्.पदम्.॥
3.26.138
हुत्वा.अग्निम्.विधिवत्.सम्यग्.ऋग्भिः.षोडशभिर्.बुधः.।
कृत.अञ्जलिपुटो.भूत्वा.स्तवम्.ताभिः.प्रयोजयेत्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0