ग्रंथ पाठ
ऋग्विधान · अध्याय 3.27
3.27.139
केशवम्.मार्गशीर्षे.तु.पौषे.नारायणम्.स्मृतम्.।
माधवम्.माघमासे.तु.गोविन्दम्.फाल्गुने.तथा.॥
3.27.140
चैत्रे.चैव.तथा.विष्णुम्.वैशाखे.मधु.सूदनम्.।
ज्येष्ठे.त्रिविक्रमम्.विद्याद्.आषाढे.वामनम्.विदुः.॥
3.27.141
श्रावणे.श्रीधरम्.विद्याद्द्.हृषीकेशम्.ततः.परे.।
आश्विने.पद्मनाभम्.तु.दामोदरम्.च.कार्त्तिके.॥
3.27.142
द्वादश.एतानि.नामानि.ऋष्यशृङ्गो.अब्रवीन्.मुनिः.।
पूजयेन्.मास.नामभिः.सर्वान्.कामान्त्.समश्नुते.॥
3.27.143
आयुष्मन्तम्.सुतम्.सूते.यशो.मेधा.समन्वितम्.।
धनवन्तम्.प्रजावन्तम्.धार्मिकम्.सात्त्विकम्.तथा.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0