ऋग्विधान · अध्याय 3.25
अग्निम्.प्रज्वाल्य.च.एतेन.उपतिष्ठेत.नित्यशः.।
आज्य.आहुतीश्.च.जुहुयात्.तेन.रक्षांसि.बाधते.॥
एतद्.रक्षोहणम्.शान्तिः.परमा.एषा.प्रकीर्तिता.।
हविष्पान्तीयम्.इत्य्.एतत्.सूक्तम्.अत्र.प्रयोजयेत्.॥
गर्हित.अन्न.अघ.योगे.च.हविष्पान्तीयम्.अभ्यसेत्.।
पवित्रम्.परमम्.ह्य्.एतद्.ध्यातव्यम्.च.अभीक्ष्णशः.॥
आदित्ये.दृष्टिम्.आस्थाय.षण्.मासान्.नियतो.अभ्यसेत्.।
देव.यानम्.स.पन्थानम्.पश्यत्य्.आदित्य.मण्डले.॥
विद्या.वैश्वानरी.च.अस्य.स्व.कायस्था.प्रकाशते.।
हविष्पान्तीयम्.अभ्यस्य.सर्व.पापैः.प्रमुच्यते.॥
इन्द्रम्.स्तव.इति.सूक्तम्.तु.जपेत्.शत्रु.निबर्हणम्.।
पवित्राणाम्.पवित्रम्.तु.गुह्यम्.पावनम्.अद्भुतम्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0