भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 3.24

3.24.123

हुत्वा.अग्निम्.स्नापयेत्.कन्याम्.स्थिताम्.देशे.तु.दक्षिणे.।
प्रियङ्गु.वट.नागानाम्.कषाय.उद्घृष्ट.केसरम्.॥

3.24.124

सम्पात.अभिहुतम्.कृत्वा.सर्व.ओषधि.समन्वितम्.।
अभिमन्त्र्य.हि.सूक्त.अन्ते.नवभिस्.तु.वि.हि.इति.वै.॥

3.24.125

स्थेयाभिर्.अद्भिः.पूर्णेन.अभिषिञ्चेद्.उपोषिताम्.।
यः.पतिघ्न्यः.स्त्रियस्.तन्वः.शाम्यन्ते.तास्.त्व्.अनेन.वै.॥

3.24.126

स्नापयेद्.आहनस्याभिर्.विद्याद्.याम्.विप्रव्राजिनीम्.।
सूक्ताद्.उपोद्धरेद्.एनम्.न.सेश.इति.तु.द्वृचम्.॥

3.24.127

उपदिष्टो.अयम्.एकेषाम्.पुंसः.कर्मणि.पौरुषे.।
रक्षोहणम्.वाजिनम्.इत्य्.एतद्.रक्षोहणम्.जपेत्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc