ग्रंथ पाठ
ऋग्विधान · अध्याय 3.23
3.23.118
दश.पुत्रवती.भवेन्.न.च.भर्त्रा.वियुज्यते.।
संराज्ञी.इति.जपेन्.मूर्ध्नि.कन्याम्.आलभ्य.नित्यशः.॥
3.23.119
श्वश्रू.श्वशुर.देवरैर्.ननान्द्रा.च.अपि.पूज्यते.।(?)
इन्द्राण्या.कृत.संवादम्.स्नाने.सूक्तम्.प्रयोजयेत्.॥
3.23.120
नव.वर्ग.उत्तम.युतम्.पति.सौभाग्य.पुत्रदम्.।
जल.पुष्प.उत्कर.युते.चित्र.कुम्भ.समावृते.॥
3.23.121
कर्तव्यो.अत्र.तथा.यागः.सोम.गन्धर्व.वह्निनाम्.।
भगाय.अप्सरसाम्.चैव.यक्ष.अधिपतये.अपि.च.॥
3.23.122
इन्द्राण्यै.देव.पत्नीनाम्.रति.प्रद्युम्नयोस्.तथा.।
नदी.सलिक.सम्पूर्णैः.पञ्च.गव्य.समावृतैः.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0