ग्रंथ पाठ
ऋग्विधान · अध्याय 3.22
3.22.113
कृत्वा.प्रतिकृतिम्.पूर्वम्.पांसुभिर्.वा.अथवा.तुषैः.।
इषुम्.अप्य्.अनुमन्त्र्य.एव.संग्रामम्.सम्प्रकल्पयेत्.॥
3.22.114
रिपुघ्नम्.एतज्.जानीयात्.प्रयुक्तम्.अपराजितम्.।
पराक.दास.द्वेष्य.अर्थम्.हृद्यम्.संवननम्.स्मृतम्.॥
3.22.115
चिन्तयन्न्.मनसा.अप्य्.एते.सूक्ते.सिद्धिम्.नियच्छति.।
सूर्यायै.भाव.वृत्तम्.तु.श्रावयेत्.कन्यकाम्.पिता.॥
3.22.116
अनुरूपम्.सुसदृशम्.भर्तारम्.तेन.विन्दति.।
इमाम्.इति.जपेत्.कन्या.नाभिम्.आलभ्य.नित्यशः.॥
3.22.117
एवम्.एव.जपेद्.भर्ता.ततो.दीर्घ.आयुषौ.तु.तौ.।
स्नापयेद्.अभिरूपैश्.च.भ्राता.कन्याम्.पिता.अपि.वा.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0