भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 3.21

3.21.108

महा.वृक्ष.फलान्य्.एवम्.अयुग्मान्य्.अभिमन्त्रयेत्.।
तेषाम्.युग्मानि.भुञ्जीत.स्वयम्.अर्धानि.शेषयेत्.॥

3.21.109

तानि.दद्याद्.यम्.इच्छेत्.तु.वशी.कर्तुम्.जपन्न्.ऋषिम्.।
सुहृद्.भूत्वा.असुहृद्.यस्य.देयम्.संवननम्.स्मृतम्.॥

3.21.110

एक.एकम्.अभिरूपम्.तु.हृद्य.सूक्त.आद्य्.अतः.पुनः.।
कर्माणि.त्व्.अभिरूपाणि.कुर्याद्.यस्.तु.यथा.इच्छति.॥

3.21.111

पराक.दासस्य.विधिम्.हृद्येन.उक्तम्.विदुर्.बुधाः.।
स्त्रीणाम्.संवननम्.च.एतत्.पुंसाम्.अपि.विधीयते.॥

3.21.112

द्वेष्यम्.तु.ज्ञातिनाम्.एव.जपेच्.चैव.सदा.युधि.।
खादिरम्.कारयेत्.शङ्कुम्.हृदि.तम्.सम्निवेशयेत्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc