ग्रंथ पाठ
ऋग्विधान · अध्याय 3.20
3.20.103
पादौ.प्रथमतश्.छिन्द्यात्.फड्.इत्य्.अग्नौ.निधापयेत्.।
अथ.जङ्घे.जानुनि.च.ऊरू.बाहू.ततः.शिरः.॥
3.20.104
छित्त्वा.हृदय.देशम्.तु.हृदये.स्वे.निवेशयेत्.।
जपन्न्.एतम्.ऋषिम्.विप्रः.स्त्री.वशम्.सा.अधिगच्छति.॥
3.20.105
न.एतत्.परिगृहीतासु.न.साध्वीषु.कथंचन.।
न.धर्म.व्रत.शीलासु.कुर्वीत.द्विज.सत्तमः.॥
3.20.106
कामम्.परिगृहीतासु.हीन.वर्णासु.यश्.चरेत्.।
पतिम्.अस्या.गुणी.कुर्यात्.पूर्वम्.पश्चात्.तु.ताम्.स्त्रियम्.॥
3.20.107
भुक्त्वा.वा.पायसम्.सद्यः.छर्दयित्वा.निधापयेत्.।
तत्.चूर्णम्.कृष्ण.जायायै.देयम्.संवननम्.स्मृतम्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0